|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.265. अध्यायः 265
Mahabharata - Vana Parva - Chapter Topics
पञ्चस्वपि पाण्डवेषु मृगयार्थे गतेषु सपरिजनेन सैन्धवेन मार्गवशात्तदाश्रमाभिगमनम् ॥ 1 ॥
तत्रद्रौपदीदर्शनक्षुभितहृदा जयद्रथेन तत्तत्वजिज्ञासया तन्निकटं प्रतिकोटिकाश्यस् प्रेषणम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-265-0x(2653)(26138)
तस्मिन्बहुमृगेऽरण्ये अटमाना महारथाः।
काम्यके भरतश्रेष्ठा विजह्वुस्ते यथामराः ॥ 3-265-1(26139)
प्रेक्षमाणा बहुविधान्वनोद्देशान्समन्ततः।
यथर्तुकालरम्याश्चवनराजीः सुषुष्पिताः ॥ 3-265-2(26140)
पाण्डवा मृगयाशीलाश्चरन्तस्तन्महद्वनम्।
विजह्नरिन्द्रप्रिमाः कंचित्कालमरिंदमाः ॥ 3-265-3(26141)
ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम्।
मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परतपाः ॥ 3-265-4(26142)
द्रौपदीमाश्रमे न्यस् तृणबिन्दोरनुज्ञया।
महर्षेर्दीप्ततपसो घौम्यस्य च पुरोधसः ॥ 3-265-5(26143)
तस्तु राजा सिंधूनां वार्धक्षत्रिर्महायशाः।
विवाहकामः साल्वेयान्प्रयातः सोऽभवत्तदा ॥ 3-265-6(26144)
महता परिबर्हेण राजयोग्येन संवृतः।
राजभिर्बहुभिः सार्धमुपायात्काम्यकं च सः ॥ 3-265-7(26145)
तत्रापश्यत्प्रियां भार्यां पाण्डवानां यशस्विनीम्।
तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने ॥ 3-265-8(26146)
विभ्राजमानां वपुषा बिभ्रतीं रूपमुत्तमम्।
भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम् ॥ 3-265-9(26147)
अप्सरा देवकन्या वा माया वा देवनिर्मिता।
इतिकृत्वाञ्जलिं सर्वे ददृशृस्तामनिन्दिताम् ॥ 3-265-10(26148)
तः स राजा सिन्धूनां वार्धक्षत्रिर्जयद्रथः।
विस्मितस्त्वनवद्याङ्गीं दृष्ट्वा तां दुष्टमानसः ॥ 3-265-11(26149)
स कोटिकाश्यं राजानमब्रवीत्काममोहितः।
कस्य त्वेषाऽनवद्याङ्गी यदिवाऽपिन मानुषी ॥ 3-265-12(26150)
विवाहार्थो न मे कश्चिदिमां दृष्ट्वाऽतिमुन्दरीम्।
एतामेवाहमादाय गमिष्यामि स्वमालयम् ॥ 3-265-13(26151)
गच्छ जानीहि सौम्येमां कस्य वाऽत्र कुतोपि वा।
किमर्थमागता सुभ्रूरिदं कष्टकितं वनम् ॥ 3-265-14(26152)
अपि नाम वरारोहा मामेषा लोकसुन्दरी।
भजेदद्यायतापाङ्गी सुदती तनुमध्यमा ॥ 3-265-15(26153)
अप्यहं कृतकामः स्यामिमां प्राप्य वरस्रियम्।
गच्छजानीहि कोन्वस्या नाथ इत्येव कोटिक ॥ 3-265-16(26154)
स कोटिकाश्यस्तच्छ्रुत्वा रथात्प्रस्कन्द्य कुण्डली।
उपेत्यपप्रच्छ तदा क्रोष्टा व्याघ्रवधूमिव ॥ 3-265-17(26155)
इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि पञ्चषष्ट्यधिकद्विशततमोऽध्यायः ॥ 265 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-265-7 परिबर्हेण परिच्छदेन ॥ 3-265-9 नीलाभ्रं नीलमेघम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|